Category अष्टकम

श्री मदन मोहन अष्टकम

Shree Madan Mohan Ashtakam श्रीमदनमोहनाष्टकम् जय श्री कृष्णाजय शङ्खगदाधर नीलकलेवर पीतपटाम्बर देहि पदम् |जय चन्दनचर्चित कुण्डलमण्डित कौस्तुभशोभित देहि पदम् || १ || जय पङ्कजलोचन मारविमोहन पापविखण्डन देहि पदम् |जय वेणुनिनादक रासविहारक वङ्किम सुन्दर देहि पदम् || २ || जय धीरधुरन्धर…

श्री कालभैरवाष्टकम्

Shree Kaal Bhairav Ashtakam श्रीकालभैरवाष्टकम्देवराजसेव्यमान पावनांघ्रिपङ्कजम् व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् |नारदादियोगिवृन्दवन्दितं दिगम्बरम् काशिकापुराधिनाथ कालभैरवं भजे || १ ||भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् |कालकालमम्बुजाक्षमक्षशूलमक्षरम् काशिकापुराधिनाथ कालभैरवं भजे || २ ||शूलटंकपाशदण्डपाणिमादिकारणम् श्यामकायमादिदेवमक्षरं निरामयम् |भीमविक्रमं प्रभुं विचित्रताण्डवप्रियम् काशिकापुराधिनाथ कालभैरवं भजे || ३ ||भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहम् भक्तवत्सलं…

श्री गंगा अष्टकम

Sri Ganga Ashtakam कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः, काकोलः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति  । किञ्च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे, मज्जज्जन्तुकदंबकं समुदयत्येकैकमादाय यत् ॥१॥ देवि त्वत्पुलिनाङ्गणेस्थितिजुषां निर्मानिनां ज्ञानिनां, स्वल्पाहारनिबद्धशुद्धवपुषां  तार्णं गृहं श्रेयसे । नान्यत्र क्षितिमण्डलेश्वरशतैः संरक्षितो  भूपतेः,…

श्री सूर्य अष्टकम

Shri Surya Ashtakam आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥1॥ सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥2॥ लोहितं  रथमारूढं  सर्वलोक पितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥3॥ त्रैगुण्यश्च महाशूरं ब्रह्माविष्णु…

श्री वेंकटेश अष्टकम

Sri Venkatesa Ashtakam ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् । अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥ नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् । प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥ मोहादिषडरिव्यूहग्रहाकुलमहार्णवे । मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥ ३॥ नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् । श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥ ४॥…

श्री पशुपति अष्टकम

Shri Pashupati Ashtakam ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥ पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् । प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ २ ॥ न जनको…

श्री परशुराम अष्टकम

Sri Parshuram Ashtakam ॥ श्रीपरशुरामाष्टकम् ॥ विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो । द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥ क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो । फुल्लरक्ताब्ज नेत्रं सदा भास्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ २॥ तेजसं…

श्री धुमावती अष्टकम

Shri Dhumavati Ashtakam ॐ प्रातर्वा स्यात कुमारी कुसुम-कलिकया जप-मालां जपन्ती। मध्यान्हे प्रौढ-रुपा विकसित-वदना चारु-नेत्रा निशायाम।। सन्ध्यायां ब्रिद्ध-रुपा गलीत-कुच-युगा मुण्ड-मालां वहन्ती। सा देवी देव-देवी त्रिभुवन-जननी चण्डिका पातु युष्मान ।।१।। बद्ध्वा खट्वाङ्ग कोटौ कपिल दर जटा मण्डलं पद्म योने:। कृत्वा दैत्योत्तमाङ्गै: स्रजमुरसी…

श्री वेंकटेश अष्टकम

Sri Venkateswara Ashtakam ॥ श्रीवेङ्कटेशाष्टकम् ॥ श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना । सर्वाघपुञ्जहरणायच धूमकेतुः पायादनन्यशरणं स्वयमेव लोकम् ॥ १॥ शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज आभूमिनाकमभितःसकलान्पुनानः । मत्कर्णयुग्मविवरेपरिगम्य सम्यक् कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २॥ वैकुण्ठराजसकलोऽपि धनेशवर्गो नीतोऽपमानसरणिंत्वयि विश्वसित्रा । तस्मादयंन समयः परिहासवाचाम् इष्टंप्रपूर्य कुरु मां कृतकृत्यसङ्घम्…

श्री रामचंद्र अष्टकम

Sri Ramachandra Ashtakam चिदाकारो धाता परमसुखदः पावनतनु, र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता । सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरुः, रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥ मुकुन्दो गोविन्दो जनकतनयालालितपदः, पदं प्राप्ता यस्याधमकुलभवा चापि शबरी । गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा, रमानाथो रामो रमतु मम चित्ते…

श्री सुब्रह्मण्य अष्टकम

Sri Subrahmanya Ashtakam हॆ स्वामिनाथ करुणाकर दीनबन्धॊ श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ । श्रीशादिदॆवगणपूजितपादपद्म वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥ दॆवादिदॆवसुत दॆवगणाधिनाथ दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ वल्लीश नाथ मम दॆहि करावलम्बम् ॥ २ ॥ नित्यान्नदाननिरताखिलरॊगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम । श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश नाथ मम दॆहि करावलम्बम्…

श्री शिव अष्टकम

Shiva Ashtakam – Shivashtakam प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् । भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 1 ॥ गलॆ रुण्डमालं तनौ सर्पजालं महाकाल कालं गणॆशादि पालम् । जटाजूट गङ्गॊत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥…

श्री भुवनेश्वरी अष्टकम

Shri Bhuvaneshwari Ashtakam भुवनेश्वरीं नमस्यामो भक्तकल्पद्रुमां सदा । वरदां कामदां शान्तां कृष्णातीरनिवासिनीम् ॥ १॥ सर्वसिद्धिप्रदे देवि भुक्तिमुक्तिप्रदे शुभे । भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ २॥ सर्वाभयप्रदे देवि सर्वदुष्टविनाशिनि । भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ३॥ सर्व क्लेशहरे देवि (श्री)महाविष्णुस्वरूपिणी ।…

श्री भुवनेश्वरी अष्टकम

Maa Bhuvaneshwari Ashtakam ॥ श्रीभुवनेश्वर्यष्टकम् ॥ अथ श्रीभुवनेश्वर्यष्टकम् । श्रीदेव्युवाच – प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल । भुवनेशीस्तवम् ब्रूहि यद्यहन्तव वल्लभा ॥ १॥ ईश्वर उवाच – शृणु देवि प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् । येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ २॥ ऊं नमामि जगदाधारां भुवनेशीं…

श्री कार्तिकेय अष्टकम

Sri Kartikeya Ashtakam – Sri Karthikeya Ashtakam ॥ श्रीकार्तिकेयाष्टकम् ॥ ॐ श्रीगणेशाय नमः । अगस्त्य उवाच- नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १ ॥ नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् । दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २ ॥…

श्री बालकृष्ण अष्टकम

Sri Bal Krishna Ashtakam – Bal Krishna Ashtakam यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् । भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १॥ प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २॥ स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३॥…

श्री विश्वकर्मा अष्टकम

Sri Vishwakarma Ashtakam – Vishwakarma Ashtakam ॥ विश्वकर्माष्टकम् ॥ निरञ्जनो निराकारः निर्विकल्पो मनोहरः । निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥ अनादिरप्रमेयश्च अरूपश्च जयाजयः । लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥ नमो विश्वविहाराय नमो विश्वविहारिणे । नमो विश्वविधाताय नमस्ते विश्वकर्मणे…

अर्धनारीश्वर अष्टकम

Ardhanarishvara Ashtakam – Ardhanarishwara Ashtakam अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १ ॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवप्रियायै च शिवाप्रियाय नमः शिवायै च नमः शिवाय ॥ २ ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्यांबरायै च दिगंबराय नमः शिवायै…