श्री वेंकटेश अष्टकम

इसे अपने दोस्तों के साथ साझा करें

Sri Venkateswara Ashtakam

॥ श्रीवेङ्कटेशाष्टकम् ॥

श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना ।

सर्वाघपुञ्जहरणायच धूमकेतुः पायादनन्यशरणं स्वयमेव लोकम् ॥ १॥

शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज आभूमिनाकमभितःसकलान्पुनानः ।

मत्कर्णयुग्मविवरेपरिगम्य सम्यक् कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २॥

वैकुण्ठराजसकलोऽपि धनेशवर्गो नीतोऽपमानसरणिंत्वयि विश्वसित्रा ।

तस्मादयंन समयः परिहासवाचाम् इष्टंप्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३॥

श्रीमन्नारास्तुकतिचिद्धनिकांश्च केचित् क्षोणीपतीन्कतिचिदत्रच राजलोकान् ।

आराधयन्तुमलशून्यमहं भवन्तं कल्याणलाभजननायसमर्थमेकम् ॥ ४॥

लक्ष्मीपतित्वमखिलेशतव प्रसिद्धमत्र प्रसिद्धमवनौमदकिञ्चनत्वम् ।

तस्योपयोगकरणायमया त्वया च कार्यः समागमैदं मनसि स्थितं मे ॥ ५॥

शेषाद्रिनाथभवताऽयमहं सनाथः सत्यंवदामि भगवंस्त्वमनाथ एव ।

तस्मात्कुरुष्वमदभीप्सित कृत्यजालम्- एवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६॥

क्रुद्धोयदा भवसि तत्क्षणमेव भूपो रङ्कायतेत्वमसि चेत्खलु तोषयुक्तः ।

भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क इच्छाम्यतस्तवदयाजलवृष्टिपातम् ॥ ७॥

अङ्गीकृतंसुविरुदं भगवंस्त्वयेति मद्भक्तपोषणमहंसततं करोमि ।

आविष्कुरुस्वमयि सत्सततं प्रदीने चिन्ताप्रहारमयमेवहियोग्यकालः ॥ ८॥

सर्वासुजातिषु मयातु समत्वमेव निश्चीयतेतव विभो करुणाप्रवाहात् ।

प्रह्लादपाण्डुसुतबल्लव गृघ्रकादौ नीचोन भाति मम कोऽप्यत एव हेतोः ॥ ९॥

सम्भावितास्तुपरिभूतिमथ प्रयान्ति धूर्ताजपं हि कपटैकपरा जगत्याम् ।

प्राप्तेतु वेङ्कटविभो परिणामकाले स्याद्वैपरीत्यमिवकौरवपाण्डवानाम् ॥ १०॥

श्रीवेङ्कटेशतव पादसरोजयुग्मे संसारदुःखशमनाय समर्पयामि ।

भास्वत्सदष्टकमिदं रचितं प्रभाकरोऽहमनिशंविनयेन युक्तः ॥ ११॥

श्रीशालिवाहनशकेशरकाष्टभूमि सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।

श्रीकेशवात्मजैदं व्यतनोत्समल्पं स्तोत्रम्प्रभाकर इति प्रथिताभिधाना ॥ १२॥

॥ इतिगार्ग्यकुलोत्पन्न यशोदागर्भज-केशवात्मज-प्रभाकर-कृतिषु श्रीवेङ्कटेशाष्टकं स्तोत्रं समाप्तम् ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466