Tag श्री सरस्वती रहस्य स्तोत्रम्

श्री सरस्वती रहस्य स्तोत्रम्

Shri Saraswati Rahasya Stotram नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम्। उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै॥१॥ या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी। नामरूपात्मना व्यक्ता सा मां पातु सरस्वती॥२॥ या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते। अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती॥३॥ या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते। अनादिनिधनानन्ता सा मां पातु…