Tag उपमन्यु कृत शिवस्तोत्रम्

उपमन्यु कृत शिवस्तोत्रम्

Upamanyu Krutha Shiva Stotram जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन!। मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे!  ॥१॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः। शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ महतः परितःप्रसर्पतः तमसो दर्शनभेदिनो भिदे। दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः॥३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः।…