नीलसरस्वती स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Neel Saraswati Stotram – Neelsaraswati Stotra

घोररूपे महारावे सर्वशत्रुभयङ्करि

भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् I१I

ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते I

जाड्यपापहरे देवि त्राहि मां शरणागतम् I२I

जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि I

द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् I३I

सौम्यक्रोधधरे रूपे चण्डरूपे नमोSस्तु ते I

सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् I४I

जडानां जडतां हन्ति भक्तानां भक्तवत्सला I

मूढतां हर मे देवि त्राहि मां शरणागतम् I५I

वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नमः I

उग्रतारे नमो नित्यं त्राहि मां शरणागतम् I ६I

बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे I

मूढत्वं च हरेद्देवि त्राहि मां शरणागतम् I७I

इन्द्रादिविलसद्द्वन्द्ववन्दिते करुणामयि I

तारे ताराधिनाथास्ये त्राहि मां शरणागतम् I८I

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः I

षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा I९I

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् I

विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् I१०I

इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाSन्वितः I

तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते I११I

पीडायां वापि संग्रामे जाड्ये दाने तथा भये I

य इदं पठति स्तोत्रं शुभं तस्य न संशयः I१२I

इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् I१३I

!! इति नीलसरस्वती स्तोत्रं संपूर्णं !!

नीलसरस्वती स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466