श्री वेङ्कटेश्वर शतनामावली स्तोत्रम

इसे अपने दोस्तों के साथ साझा करें

Sri Venkateswara Ashtottara Shatanama Stotram

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः

अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः

प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।

अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १॥

श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः ।

गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २॥

सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् ।

चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥ ३॥

धरापतिस्सुरपतिर्निर्मलो देवपूजितः ।

चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥ ४॥

निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः ।

निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥ ५॥

गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः ।

अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ६॥

अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः ।

आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥ ७॥

दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः ।

त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥ ८॥

शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः ।

नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥ ९॥

जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।

चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥ १०॥

देवकीनन्दन शौरि हयग्रीवो जनार्धनः ।

कन्याश्रवणतारेज्य पीताम्बरोनघः ॥ ११॥

वनमालीपद्मनाभ मृगयासक्त मानसः ।

अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥ १२॥

घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः ।

सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥ १३॥

यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।

परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥ १४॥

परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।

एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥ १५॥

पठ्यतां शृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् ।

॥ इति श्री ब्रह्माण्ड पुराणानान्तर्गत श्री वेङ्कटेश्वराष्टोत्तर शतनाम स्तोत्रं समाप्तम् ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466