Category स्तोत्रम

भैरव तांण्डव स्तोत्र

Bhairav Tandava Stotram – Kaal Bhairav Tandav Stotram ।। अथ भैरव तांण्डव स्तोत्र ।। ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् । लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।। डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् । भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।। चर्चित…

श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्

Sri Lakshmi Narsingh Dwadasanama Stotram अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी। तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥ पञ्चमं नारसिंहशच षष्ठः कश्यपमर्दनः। सप्तमो यातुहंता च…

श्री लक्ष्मी हयवदन रत्नमाला स्तोत्रम्

Shri Lakshmi Hayavadana Ratnamala Stotram श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः । श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् । वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः, ज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् । प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रः, त्रय्यन्ताचार्यनामा मम…

ब्रह्मा कृत सरस्वती स्तोत्र

Brahma Kruta Saraswati Stotram – Saraswati Stotram ऊँ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः। गायत्री छन्दः। श्रीसरस्वती देवता। धर्मार्थकाममोक्षार्थे जपे विनियोगः आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं, वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या। सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः, क्रीडन्ती दिव्यरूपा करकमलधरा…

श्री अर्धनारीश्वर स्तोत्र

Sri Ardhanarishwara Stotram – Ardhanareeswara Stotram चाम्पेयगौरार्धा  शरीरकायै  कर्पूरगौरार्धा  शररकय  | धम्मिल्लकायै i च   जटाधराय  नमः  शिवाय i च  नमः  शिवाय  ||1|| कस्तूरिका  कुंकुमचर्चितायै  चितरजःपुंजा  विचर्चिताया  | कृतस्मरायै  विकृतस्मराय  नमः  शिवायै  च  नमः  शिवाय  ||2|| झणत्क्वणत्कंकणा  नूपुरायै  पादब्जराजत्फणिन  उपरया  |…

श्री कार्तवीर्यार्जुन स्त्रोत

Shri Kartavirya Arjuna Stotram || Kartavirya Arjuna Stotra कार्तवीर्यार्जुनॊनाम राजाबाहुसहस्रवान्। तस्यस्मरण मात्रॆण गतम् नष्टम् च लभ्यतॆ॥ कार्तवीर्यह:खलद्वॆशीकृत वीर्यॊसुतॊबली। सहस्र बाहु:शत्रुघ्नॊ रक्तवास धनुर्धर:॥ रक्तगन्थॊ रक्तमाल्यॊ राजास्मर्तुरभीश्टद:। द्वादशैतानि नामानि कातवीर्यस्य य: पठॆत्॥ सम्पदस्तत्र जायन्तॆ जनस्तत्रवशन्गतह:। आनयत्याशु दूर्स्थम् क्षॆम लाभयुतम् प्रियम्॥ सहस्रबाहुम् महितम्…

श्री लघु अन्नपूर्णा स्तोत्र

Sri Laghu Annapurna Stotram – Laghu Annapoorna Stotram भगवति भवरोगात् पीडितं दुष्कृतोत्यात् । सुतदुहितृकलत्र उपद्रवेणानुयातम् । विलसदमृतदृष्ट्या वीक्ष विभ्रान्तचित्तम् । सकलभुवनमातस्त्राहि माम् ॐ नमस्ते ॥ १ ॥ माहेश्र्वरीमाश्रितकल्पवल्ली महंभवोच्छेदकरीं भवानीम् । क्षुधार्तजायातनयाद्दुपेत स्त्वान्नपूर्णे शरणं प्रपद्दे ॥ २ ॥ दारिद्र्यदावानलदह्यमानम् ।…

श्री वेङ्कटेश्वर शतनामावली स्तोत्रम

Sri Venkateswara Ashtottara Shatanama Stotram श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः । अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १॥ श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः । गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २॥ सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् । चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः…

श्री हनुमत तांडव स्तोत्र

Shri Hanuman Tandav Stotram ॥ श्रीहनुमत्ताण्डवस्तोत्रम् ॥ वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् । रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥ भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् । सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम् ॥ १॥ सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न । इति…

श्री परशुराम अष्टोत्तर शतनाम स्तोत्रम्

Shri Parashuram Ashtottara Shatanama Stotram रामो राजाटवीवह्नि रामचन्द्रप्रसादकः । राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १॥ रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी । रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ २॥ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः । राताखिलरसो रक्तकृतपैतृकतर्पणः ॥ ३॥ रत्नाकरकृतावासो रतीशकृतविस्मयः । रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥ ४॥ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् । राजद्भृगुकुलाम्बोधिचन्द्रमा…

श्री बगलामुखी हृदय स्तोत्र

Shri Baglamukhi Hridaya Stotram – Bagla Hridaya Stotra वन्देऽहं देवीं पीतभूषणभूषिताम् । तेजोरुपमयीं देवीं पीततेजः स्वरुपिणीम् ।। १ ।। गदाभ्रमणभिन्नाभ्रां भ्रकुटीभीषणाननाम् । भीषयन्तीं भीमशत्रून् भजे भव्यस्य भक्तिदाम् ।। २ ।। पूर्ण-चन्द्रसमानास्यां पीतगन्धानुलेपनाम् । पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ।। ३ ।। पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले…

शिवप्रातःस्मरणस्तोत्रम्

Shiva Pratah Smaran Stotram प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् । खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥१॥ प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् । विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥२॥ प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम् । नामादिभेदरहितं षड्भावशून्यं संसाररोगहरमौषधमद्वितीयम् ॥३॥

भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र

Bhakta Manoratha Siddhipradam Ganesha Stotram ॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥ श्री गणेशाय नमः । स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥ वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥ मायासिद्धिस्तथा देवो…

श्री मंगल चंडिका स्तोत्रम्

Shri Mangal Chandika Stotram ।। श्री मंगलचंडिकास्तोत्रम् ।। ध्यान “ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I ध्यानं च…

श्री सरस्वती रहस्य स्तोत्रम्

Shri Saraswati Rahasya Stotram नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम्। उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै॥१॥ या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी। नामरूपात्मना व्यक्ता सा मां पातु सरस्वती॥२॥ या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते। अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती॥३॥ या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते। अनादिनिधनानन्ता सा मां पातु…

श्री शिव रुद्राष्टक स्तोत्र

Shri Shiva Rudrashtakam Stotram – Shri Rudrashtakam Stotram नमामीशमीशान निर्वाणरूपं। विभुं व्यापकं ब्रह्मवेदस्वरूपं। निजं निर्गुणं निर्विकल्पं निरीहं। चिदाकाशमाकाशवासं भजे हं॥1॥ निराकारमोंकारमूलं तुरीयं। गिरा ग्यान गोतीतमीशं गिरीशं। करालं महाकाल कालं कृपालं। गुणागार संसारपारं नतो हं॥2॥ तुषाराद्रि संकाश गौरं गम्भीरं। मनोभूत कोटि…

श्री हनुमत् भुजङ्ग स्तोत्रम्

Sri Hanuman Bhujanga Stotram स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा – झणत्कारनादप्रवृद्धाट्टहासम् । भजे वायुसूनुं भजे रामदूतं भजे वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥ प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं जगद्गीतशौर्यं तुषाराद्रिशौर्यम् । तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥ भजे रामरम्भावनीनित्यवासं भजे बालभानुप्रभाचारुहासम् । भजे चन्द्रिकाकुन्दमन्दारभासं…

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

Sri Narasimha Giri Ashtottara Shatanama Stotram प्रह्लाद कृत नृसिंह स्तोत्र || Prahlada Krutha Narasimha Stotram || Sri Narasimha Stotram ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः। नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥१॥ मन्ये धनाभिजनरूपतपःश्रुतौज- स्तेजःप्रभावबलपौरुषबुद्धियोगाः। नाराधनाय हि भवन्ति…

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

Sri Narasimha Giri Ashtottara Shatanama Stotram ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥ शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥ शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥ नारायणप्रवचनो नारायणपरायणः । नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥ दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः । श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥ मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः । मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥ निरञ्जनप्रपीठस्थो…

श्री शिवरामाष्टक स्तोत्रम्

Shri Shiva Ramashtakam Stotram – Shiv Ramashtakam Stotram शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥१॥ कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव…