मृतसञ्जीवन स्तोत्रम्
Mritasanjeevani Stotram मृतसञ्जीवन स्तोत्रम् ||एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् |मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ||१|| सारात्सारतरं पुण्यं गुह्यात्गुह्यतरं शुभम् |महादेवस्य कवचं मृतसञ्जीवनामकम् ||२|| समाहितमना भूत्वा शृणुश्व कवचं शुभम् |शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ||३|| वराभयकरो यज्वा सर्वदेवनिषेवित: |मृत्युञ्जयो महादेव: प्राच्यां मां…