श्री लक्ष्मी द्वादश नाम स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Sri Lakshmi Dwadasa Nama Stotram

श्रीदेवी प्रथमं नाम द्वितीयं अमृत्तोद्भवा

तृत्तीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी

पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा

सप्ततं तु वरारोहा अष्टमं हरिवल्लभा

नवमं शार्गिंणी प्रोक्ता दशमं देवदेविका

एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः

आयुरारोग्यमैश्वर्यं तस्य पुण्यफलप्रदम्

द्विमासं सर्वकार्याणि षण्मासाद्राज्यमेव च

संवत्सरं तु पूजायाः श्रीलक्ष्म्याः पूज्य एव च

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं

दासीभूत समस्त देववनितां लोकैक दीपांकुराम् ।

श्रीमन्मन्दकटाक्ष लब्ध विभव ब्रह्मेन्द्र गंगाधरां

त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ।।६।।

 । । इति श्रीलक्ष्मीद्वादशनामस्तोत्रं सम्पूर्णम् । ।

इन्द्रकृतं लक्ष्मीस्तोत्रं
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466