श्री नृसिंह पंचामृत स्तोत्र

इसे अपने दोस्तों के साथ साझा करें

Sri Narasimha Panchamrutha Stotram

अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् ।

नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥

गॊविन्द कॆशव जनार्दन वासुदॆव विश्वॆश विश्व मधुसूदन विश्वरूप ।

श्री पद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमॊ नमस्तॆ ॥ २ ॥

देवाः समस्ताः खलु यॊगिमुख्याः गन्धर्व विद्याधर किन्नराश्च ।

यत्पादमूलं सततं नमन्ति तं नारसिंहं शरणं गतॊऽस्मि ॥ ३ ॥

वॆदान् समस्तान् खलु शास्त्रगर्भान् विद्याबलॆ कीर्तिमतीं च लक्ष्मीम् ।

यस्य प्रसादात् सततं लभन्तॆ तं नारसिंहं शरणं गतॊऽस्मि ॥ ४ ॥

ब्रह्मा शिवस्त्वं पुरुषॊत्तमश्च नारायणॊऽसौ मरुतां पतिश्च ।

चन्द्रार्क वाय्वग्नि मरुद्गणाश्च त्वमॆव तं त्वां सततं नतॊऽस्मि ॥ ५ ॥

स्वप्नॆऽपि नित्यं जगतां त्रयाणाम् स्रष्टा च हन्ता विभुरप्रमॆयः ।

त्राता त्वमॆकस्त्रिविधॊ विभिन्नः तं त्वां नृसिंहं सततं नतॊऽस्मि ॥ ६ ॥

राघवॆणकृतं स्तॊत्रं पञ्चामृतमनुत्तमम् ।

पठन्ति यॆ द्विजवराः तॆषां स्वर्गस्तु शाश्वतः ॥ ७ ॥

श्री नृसिंह पंचामृत स्तोत्र
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466