श्री वेङ्कटेश स्तोत्रम्

इसे अपने दोस्तों के साथ साझा करें

Sri Venkatesa Stotram – Venkatesa Stotra

शंखं चक्रं गदाम् च क्षयितरिपुमदां शार्ङ्गमप्यंबुजं च,

बिभ्राणं हस्तपद्मैः मुनिवर दिव्यैर्भक्तितोष्टूयमाणम् ।

वेदोघैः मूर्तिमद्भिः विनुतगुणगणं श्रीवराहपुरीशम्,

श्रीनारायणतिर्थविप्रवन्दितपदं श्रीवेङ्कटेशं भजे ॥१॥

परितुष्टरमाहृदयं सदयं मृतिजन्मजराशमनं गमनं,

शरणागतभीतिहरं दहरं प्रणमामि वराहपुरिराजम् ॥२॥

कारुण्याम्भोधिमाद्यं कमलभवनुतं नारदादीड्यमानं,

नानाम्नायान्तसूक्तैरपि भृशमनभिज्ञेयमानस्वरूपम्।

वन्दे सर्वोत्तमं चाखिलजगदुदयस्थित्यपायादिहेतुं,

श्री वाराहाग्रहारस्थितममितदयं वेङ्कटेशं हरिं तम् ॥३॥

ओंकारान्तर्विलसदमलस्वीयदिव्यस्वरूपं,

लोकाधारं शमधनमुनिस्वान्तपाथोजभृङ्गं।

भक्तिप्रह्वाश्रितजनमनोभीष्टदानामरद्रुं,

श्री वाराहाभिधपुरगतं नौमि तं वेङ्कटेशम् ॥४॥

भक्तानां सुरपादपस्सुमनसां सौभाग्यसीमावधिः,

दैत्यानां प्रलयान्तको व्रजवधूबृन्दस्य पुष्पाशुगः।

वृष्णीनां व्रजपालको वरमुनिव्रातस्य तप्तं तपः,

विप्राणां वराहपुरे तु वसतां भाग्यं हरिः पातु वः ॥५॥

लक्ष्मीपते गरुडवाहन शेषशायिन्,

वैकुण्ठवास वसुधाधिप वासुदेव।

यज्ञेश यज्ञमय यज्ञभुगादि देव,

पाहि प्रभो श्री वराहपुरि वेङ्कटेश ॥६॥

योगीश शाश्वत शरण्य भवाब्धिपोत,

त्रय्यन्तवेद्य करुणाकर दीनबन्धो ।

श्रीकान्त यादवकुलाब्धिशशाङ्क कृष्ण,

पाहि प्रभो श्री वराहपुरि वेङ्कटेश ॥७॥

सच्चिदानन्दरूपाय परमानन्दरूपिणे।

नमो वेङ्कटनाथाय वराहपुरिवासिने॥८॥

सर्वलोकशरण्याय सर्वलोकनिवासिने।

सर्वदेवादिदेवाय वेङ्कटेशाय वै नमः ॥९॥

नमो वराहव्याजेन दिव्यदर्शनदायिने ।

भक्तसंरक्षणायात्र वासिने वेङ्कटेश ते ॥१०॥

सर्वसंपत्करं सर्वदुरितक्षयकारकं ।

सर्वव्याधिहरं चैव पुत्रभाग्यादिदायकम्॥११॥

सर्वाभीष्टप्रदं चैव मोक्षसाम्राज्यदायकम्।

कोटिजन्मकृतं पापं व्यपोहति न संशयः ॥१२॥

श्री वेङ्कटेश स्तोत्रम्
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466