Brihaspati Stotram
विनियोग –
ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः,
बहस्पतिः देवता, श्रीबृहस्पति प्रीत्यर्थे पाठे विनियोगः।।
गुरुर्बुहस्पतिर्जीवः सुराचार्यो विदांवरः।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा।।
सुधादृष्टिः ग्रहाधीशो ग्रहपीडापहारकः।
दयाकरः सौम्य मूर्तिः सुराज़: कुङ्कमद्युतिः।।
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः।
तारापतिश्चअङ्गिरसो वेद वैद्य पितामहः।।
भक्तया वृहस्पतिस्मृत्वा नामानि एतानि यः पठेत्।
आरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः।।
जीवेद् वर्षशतं मर्त्यः पापं नश्यति तत्क्षणात्।
यः पूजयेद् गुरु दिने पीतगन्धा अक्षताम्बरैः।
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम्।
ब्राह्मणान् भोजयित्वा च पीडा शान्ति:भवेद्गुरोः।।
