Sri Narasimha Prapatti Stotram
माता नृसिंहः पिता नृसिंहः भ्राता नृसिंहः सखा नृसिंहः ।
विद्या नृसिंहो द्रविणं नृसिंहः स्वामी नृसिंहः सकलं नृसिंहः ॥१॥
इतो नृसिंहः परतो नृसिंहः यतो यतो याहि(मि) ततो नृसिंहः ।
नृसिंहदेवात्परो न कश्चित् तस्मान्नृसिंहं शरणं प्रपद्ये ॥२॥
इतो नृसिंहः परतो नृसिंहः यतो यतो यामि ततो नृसिंहः ।
बहिर्नृसिंहो हृदये नृसिंहो नृसिंहमादिं शरणं प्रपद्ये ॥२॥
