श्री दत्तात्रेय वज्र कवच

इसे अपने दोस्तों के साथ साझा करें

Shree Dattatreya Vajra Kavacham – Shree Dattatreya Vajra Kavach

॥श्रीहरि:॥

श्रीगणेशाय नम:। श्रीदत्तात्रेयाय नम:। ऋषय ऊचु:।

कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे।

धर्मार्थकाममोक्षणां साधनं किमुदाह्रतम्‌॥१॥

व्यास उवाच।

श्रृण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम्‌।

सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम्‌॥२॥

गौरीश्रृङ्गे हिमवत: कल्पवृक्षोपशोभितम्‌।

दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम्‌॥३॥

रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम्‌।

मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती॥४॥

श्रीदेव्युवाच

देवदेव महादेव लोकशङ्कर शङ्कर।

मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नश:॥५॥

तन्त्रजालान्यनेकानि मया त्वत्त: श्रुतानि वै।

इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम्‌॥६॥

इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वर:।

करेणामृज्य संतोषात्पार्वतीं प्रत्यभाषत॥७॥

मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते।

इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्कर:॥८॥

ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन्‌।

क्वचिद्‌ विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे॥९॥

तत्र व्याहन्तुमायान्तं भिल्लं परशुधारिणम्‌।

वध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम्‌॥१०॥

अतीव चित्रचारित्र्यं वज्रकायसमायुतम्‌।

अप्रयत्नमनायासमखिन्नं सुखमास्थितम्‌॥११॥

पलायन्तं मृगं पश्चाद्‌ व्याघ्रो भीत्या पलायित:।

एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम्‌॥१२॥

पार्वत्युवाच

किमाश्चर्यं किमाश्चर्यमग्ने शम्भो निरीक्ष्यताम्‌।

इत्युक्त: स तत: शम्भूर्दृष्ट्‌वा प्राह पुराणवित्‌॥१३॥

श्रीशङ्कर उवाच

गौरि वक्ष्यामि ते चित्रमवाङ्मनसगोचरम्‌।

अदृष्टपूर्वमस्माभिर्नास्ति किञ्चिन्न कुत्रचित्‌॥१४॥

मया सम्यक्‌ समासेन वक्ष्यते श्रृणु पार्वति।

अयं दूरश्रवा नाम भिल्ल: परमधार्मिक:॥१५॥

समित्कुशप्रसूनानि कन्दमूलफलादिकम्‌।

प्रत्यहं विपिनं गत्वा समादाय प्रयासत:॥१६॥

प्रिये पूर्वं मुनीन्द्रेभ्य: प्रयच्छति न वाञ्छति।

तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिन:॥१७॥

दलादनो महायोगी वसन्नेव निजाश्रमे।

कदाचिदस्मरत्‌ सिद्धम दत्तात्रेयं दिगम्बरम्‌॥१८॥

दत्तात्रेय: स्मर्तृगामी चेतिहासं परीक्षितुम‌।

तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेय: समुत्थित:॥१९॥

तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनि:।

सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम्‍॥२०॥

मयोपहूत: सम्प्राप्तो दत्तात्रेय महामुने।

स्मर्तृगामी त्वमित्येतत्‌ किंवदन्तीं परीक्षितुम्‌॥२१॥

मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे।

दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी॥२२॥

अभक्त्या वा सुभक्त्या वा य: स्मरेन्मामनन्यधी:।

तदानीं तमुपागत्य ददामि तदभीप्सितम्‌॥२३॥

दत्तात्रेयो मुनि: प्राह दलादनमुनीश्वरम्‌।

यदिष्टं तद्‌ वृणीष्व त्वं यत्‌ प्राप्तोऽहं त्वया स्मृत:॥२४॥

दत्तात्रेयं मुनि: प्राह मया किमपि नोच्यते।

त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव॥२५॥

ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम्‌।

तथेत्यङ्गिकृतवते दलादमुनये मुनि:॥२६॥

स्ववज्रकवचं प्राह ऋषिच्छन्द:पुर:सरम्‌।

न्यासं ध्यानं फलं तत्र प्रयोजनमशेषत:॥२७॥

अथ विनियोगादि :

अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य किरातरूपी महारुद्र ऋषि:, अनुष्टप्‌ छन्द:,

श्रीदत्तात्रेयो देवता, द्रां बीजम्‌, आं शक्ति:, क्रौं कीलकम्‌, ॐ आत्मने नम:।

ॐ द्रीं मनसे नम:। ॐ आं द्रीं श्रीं सौ: ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्ल:।

श्रीदत्तात्रेयप्रसादसिद्‌ध्यर्थे जपे विनियोग:॥ ॐ द्रां अङ्गुष्ठाभ्यां नम:।

ॐ द्रीं तर्जनीभ्यां नम:। ॐ द्रूं मध्यमाभ्यां नम:।

ॐ द्रैं अनामिकाभ्यांनम:। ॐ द्रौं कनिष्ठिकाभ्यांनम:।

ॐद्र: करतलकरपृष्ठाभ्यां नम:। ॐ द्रां ह्रदयाय नम:। ॐ द्रीं शिरसे स्वाहा।

ॐ द्रूं शिखायै वषट्‌। ॐ द्रैं कवचाय हुम्‌। ॐ द्रौं नेत्रत्रयाय वौषट्‍।

ॐ द्र: अस्त्राय फट्‍। ॐ भूर्भुव:स्वरोम्‍ इरि दिग्बन्ध:।

अथ ध्यानम

जगदङ्कुरकन्दाय सच्चिदानन्दमूर्तये।

दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने (नम:)॥१॥

कदा योगी कदा भोगी कदा नग्न: पिशाचवत्।

दत्तात्रेयो हरि: साक्षाद्‍ भुक्तिमुक्तिप्रदायक:॥२॥

वाराणसीपुरस्नायी कोल्हापुरजपादर:।

माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर:॥३॥

इन्द्रनीलसमाकारश्चन्द्रकान्तसमद्युति:।

वैदुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधर:॥४॥

स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिक:।

भ्रूवक्ष:श्मश्रुनीलाङ्क: शशाङ्कसदृशानन:॥५॥

हासनिर्जितनीहार: कण्ठनिर्जितकम्बुक:।

मांसलांसो दीर्घबाहु: पाणिनिर्जितपल्लव:॥६॥

विशालपीनवक्षाश्च ताम्रपाणिर्दरोदर:।

पृथुलश्रोणिललितो विशालजघनस्थल:॥७॥

रम्भास्तम्भोपमानोरूर्जानुपूर्वैकजंघक:।

गूढगुल्फ: कूर्मपृष्ठो लसत्पादोपरिस्थल:॥८॥

रक्तारविन्दसदृशरमणीयपदाधर:।

चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे॥९॥

ज्ञानोपदेशनिरतो विपद्धरनदीक्षित:।

सिद्धासनसमासीन ऋजुकायो हसन्मुख:॥१०॥

वामह्स्तेन वरदो दक्षिणेनाभयंकर:।

बालोन्मत्तपिशाचीभि: क्वचिद्युक्त: परीक्षित:॥११॥

त्यागी भोगी महायोगी नित्यानन्दो निरञ्जन:।

सर्वरूपी सर्वदाता सर्वग: सर्वकामद:॥१२॥

भस्मोद्धूलितसर्वाङ्गो महापातकनाशन:।

भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशय:॥१३॥

एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत्।

मामेव पश्यन्सर्वत्र स मया सह संचरेत्॥१४॥

दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलम डमरुं गदायुधम्।

पद्‌मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरेणन नित्यम्॥१५॥

अथ पञ्चोपचारपूजा

ॐ नमो भगवते दत्तात्रेयाय लं पृथिवीगन्धतन्मात्रात्मकं चन्दनं परिकल्पयामि।

ॐ नमो भगवते दत्तात्रेयायं हं आकाशशब्दतन्मात्रात्मकं पुष्पं परिकल्पयामि।

ॐ नमो भगवते दत्तात्रेयाय यं वायुस्पर्शतन्मात्रात्मकं धूपं परिकल्पयामि।

ॐ नमो भगवते दत्तात्रेयाय रं तेजोरूपतन्मात्रात्मकं दीपं परिकल्पयामि।

ॐ नमोभगवते दत्तात्रेयाय वं अमृतरसत्नमात्रात्मकं नैवेद्यं परिकल्पयामि।

ॐ द्रां’ इति मन्त्रम् अष्टोत्तरशतवारं (१०८) जपेत्।)

अथ वज्रकवचम्

ॐ दत्तात्रेय: शिर: पातु सहस्त्राब्जेषु संस्थित:।

भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यग:॥१॥

कूर्चं मनोमय: पातु हं क्षं द्विदलपद्मभू:।

ज्योतीरूपोऽक्षिणी पातु पातु शब्दात्मक: श्रुती॥२॥

नासिकां पातु गन्धात्मा मुखं पातु रसात्मक:।

जिह्वां वेदात्मक: पातु दन्तोष्ठौ पातु धार्मिक:॥३॥

कपोलावत्रिभू: पातु पात्वशेषं ममात्मवित्।

स्वरात्मा षोडशाराब्जस्थित: स्वात्माऽवताद्‍गलम्॥४॥

स्कन्धौ चन्द्रानुज: पातु भुजौ पातु कृतादिभू:।

जत्रुणी शत्रुजित्‍ पातु पातु वक्ष:स्थलं हरि:॥५॥

कादिठान्तद्वादशारपद्‍मगो मरुदात्मक:।

योगीश्वरेश्वर: पातु ह्रदयं ह्रदयस्थित:॥६॥

पार्श्वे हरि: पार्श्ववर्ती पातु पार्श्वस्थित: स्मृत:।

हठयोगादियोगज्ञ: कुक्षी पातु कृपानिधि:॥७॥

डकारादिफकारान्तदशारसरसीरुहे।

नाभिस्थले वर्तमानो नाभिं वह्वयात्मकोऽवतु॥८॥

वह्नितत्त्वमयो योगी रक्षतान्मणिपूरकम्।

कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु॥९॥

बकारादिलकारान्तषट्‍पत्राम्बुजबोधक:।

जलतत्त्वमयो योगी स्वाधिष्ठानं ममावतु॥१०॥

सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु।

वादिसान्तचतुष्पत्रसरोरुहनिबोधक:॥११॥

मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही।

पृष्ठं च सर्वत: पातु जानुन्यस्तकराम्बुज:॥१२॥

जङ्घे पत्ववधूतेन्द्र: पात्वङ्घ्री तीर्थपावन;।

सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशव:॥१३॥

चर्म चर्माम्बर: पातु रक्तं भक्तिप्रियोऽवतु।

मांसं मांसकर: पातु मज्जां मज्जात्मकोऽवतु॥१४॥

अस्थीनि स्थिरधी: पायान्मेधां वेधा: प्रपालयेत्।

शुक्रं सुखकर: पातु चित्तं पातु दृढाकृति:॥१५॥

मनोबुद्धिमहंकारम ह्रषीकेशात्मकोऽवतु।

कर्मेन्द्रियाणि पात्वीश: पातु ज्ञानेन्द्रियाण्यज:॥१६॥

बन्धून‍ बन्धूत्तम: पायाच्छत्रुभ्य: पातु शत्रुजित्।

गृहारामधनक्षेत्रपुत्रादीञ्छ्ङ्करोऽवतु॥१७॥

भार्यां प्रकृतिवित्पातु पश्वादीन्पातु शार्ङ्गभृत्।

प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्कर:॥१८॥

सुखं चन्द्रात्मक: पातु दु:खात्पातु पुरान्तक:।

पशून्पशुपति: पातु भूतिं भुतेश्वरो मम॥१९॥

प्राच्यां विषहर: पातु पात्वाग्नेय्यां मखात्मक:।

याम्यां धर्मात्मक: पतु नैऋत्यां सर्ववैरिह्रत्।२०॥

वराह: पातु वारुण्यां वायव्यां प्राणदोऽवतु।

कौबेर्यां धनद: पातु पात्वैशान्यां महागुरु:॥२१॥

ऊर्ध्व पातु महासिद्ध: पात्वधस्ताज्जटाधर:।

रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वर:॥२२॥

ॐ द्रां’ मन्त्रजप:, ह्रदयादिन्यास: च।एतन्मे वज्रकवचं य: पठेच्छृणुयादपि।

वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम्॥२३॥

त्यागी भोगी महायोगी सुखदु:खविवर्जित:।

सर्वत्रसिद्धसंकल्पो जीवन्मुक्तोऽथ वर्तते॥२४॥

इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बर:।

दलादनोऽपि तज्जप्त्वा जीवन्मुक्त: स वर्तते॥२५॥

भिल्लो दूरश्रवा नाम तदानीं श्रुतवानिदम्।

सकृच्छ्र्वणमात्रेण वज्राङ्गोऽभवदप्यसौ॥२६॥

इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिन:।

श्रुत्वाशेषं शम्भुमुखात्‍ पुनरप्याह पार्वती॥२७॥

पार्वत्युवाच

एतत्कवचमाहात्म्यम वद विस्तरतो मम।

कुत्र केन कदा जाप्यं किं यज्जाप्यं कथं कथम्॥२८॥

उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम्।

श्रीशिव उवाच

श्रृणु पार्वति वक्ष्यामि समाहितमनविलम्॥२९॥

धर्मार्थकाममोक्षणामिदमेव परायणम्।

हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम्॥३०॥

पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम्।

वेदशास्त्रादिविद्यानां निधानं परमं हि तत्॥३१॥

सङ्गितशास्त्रसाहित्यसत्कवित्वविधायकम्।

बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम्॥३२॥

सर्वसंतोषकरणं सर्वदु:खनिवारणम्।

शत्रुसंहारकं शीघ्रं यश:कीर्तिविवर्धनम्॥३३॥

अष्टसंख्या: महारोगा: सन्निपातास्त्रयोदश।

षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगका:॥३४॥

अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि।

अशीतिर्वातरोगाश्च चत्वारिंशत्तु पैत्तिका:॥३५॥

विंशति: श्लेष्मरोगाश्च क्षयचातुर्थिकादय:।

मन्त्रयन्त्रकुयोगाद्या: कल्पतन्त्रादिनिर्मिता:॥३६॥

ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्‍भवा:।

संगजा देशकालस्थास्तापत्रयसमुत्थिता:॥३७॥

नवग्रहसमुद्‍भूता महापातकसम्भवा:।

सर्वे रोगा: प्रणश्यन्ति सहस्त्रावर्तनाद्‍ध्रुवम्॥३८॥

अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत्।

अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत्॥३९॥

अयुतत्रितयाच्चैव खेचरत्वं प्रजायते।

सहस्त्रादयुतादर्वाक्‍ सर्वकार्याणि साधयेत्॥४०॥

लक्षावृत्त्या कार्यसिद्धिर्भवत्येव न संशय:॥४१॥

विषवृक्षस्य मूलेषु तिष्ठन्‍ वै दक्षिणामुख:।

कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम्॥४२॥

औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते।

श्रीवृक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि॥४३॥

ओजस्कामोऽश्वत्थमूले स्त्रीकामै: सहकारके।

ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभि:॥४४॥

धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके।

देवालये सर्वकामैस्तत्काले सर्वदर्शितम्॥४५॥

नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत्।

युद्धे वा शास्त्रवादे वा सहस्त्रेन जयो भवेत्॥४६॥

कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत्।

ज्वरापस्मारकुष्ठादितापज्वरनिवारणम्॥४७॥

यत्र यत्स्यात्स्थिरं यद्यत्प्रसक्तं तन्निवर्तते।

तेन तत्र हि जप्तव्यं तत: सिद्धिर्भवेद्‍ध्रुवम्॥४८॥

इत्युक्तवान्‍ शिवो गौर्ये रहस्यं परमं शुभम्।

य: पठेद्‍ वज्रकवचं दत्तात्रेयसमो भवेत्॥४९॥

एवम शिवेन कथितं हिमवत्सुतायै।

प्रोक्तं दलादमुनयेऽत्रिसुतेन पूर्वम्।

य: कोऽपि वज्रकवचं पठतीह लोके।

दत्तोपमश्र्चरति योगिवरश्र्चिरायु:॥५०॥

॥ इति श्रीरुद्रयामले हिमवत्खण्डे मन्त्रशास्त्रे उमामहेश्वरसंवादे श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466