श्री सुब्रह्मण्य भुजङ्ग स्त्रोत

इसे अपने दोस्तों के साथ साझा करें

Sri Subramanya Bhujanga Stotram – Sri Subrahmanya Bhujanga Stotram

सदा बालरूपापि विघ्नाद्रिहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या ।

विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं कापि कल्याणमूर्तिः ॥१॥

न जानामि शब्दं न जानामिचार्थं न जानामि पद्यं न जानामि गद्यम् ।

चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥२॥

मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् ।

महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥३॥

यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव ।

इति व्यञ्जयन्सिन्धुतीरे य आस्ते तमीडे पवित्रं पराशक्ति पुत्रम् ॥४॥

यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-स्थैवापदः सन्निधौ सेवतां मे ।

इतीवोर्मिपङ्गक्तीर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तम् ॥५॥

गिरौ मन्निवासे नरा येऽधिरूढा-स्तदा पर्वते राजते तेऽधिरूढाः ।

इतीव ब्रुवन् गन्धशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥

महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले ।

गुहायां वसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं श्रयामो गुहं तम् ॥७॥

लसत्वर्णगेहे नृणां कामदोहे सुमस्तोमसंछन्नमाणिक्यमञ्चे ।

समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम् ॥८॥

रणद्धंसके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे ।

मनःषट्पदो मे भवत्क्लेशतप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥९॥

सुवर्णाभदिव्याम्बरैर्भासमानां क्वणत्किङ्किणीमेखलाशोभमानाम् ।

लसद्धेमपट्टेन विद्योतमानां कटिं भावये स्कन्द ते दीप्यमानाम् ॥१०॥

पुलिन्देशकन्याघनाभोगतुङ्ग्-स्तनालिङ्गनासक्तकाशमीररागम् ।

नमस्यामहं तारकरे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥११॥

विधौकॢप्तदण्डान्स्वलीलाधृताण्डा-न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् ।

हतेन्द्रारिषण्डाञ्जगत्राणशौण्डान् सदा ते प्रचण्डाञ्श्रये बाहुदण्डान् ॥१२॥

सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थिताश्चेत्समन्तात् ।

सदा पूर्णबिम्बाः कलङ्कैश्च हीना-स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥१३॥

स्फुरन्मन्दहासैः सहंसानि चञ्च-त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि ।

सुधास्यान्दिबिम्बाधराणीशसूनो तवालोकये षण्मुखाम्भोरुहाणि ॥१४॥

विशालेषु कर्णान्तदीर्घेष्वजस्त्रं दयास्यन्दिषु द्वादशस्वीक्षणेषु ।

मयीषत्कटाक्षः सकृत्पातितश्चे-द्भवेते दयाशील का नाम हानिः ॥१५॥

सुताङ्गोद्भवो मेऽसि जीवेति षड्धा जपन्मन्त्रमीशो मुदा चिघ्रते यान् ।

जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥१६॥

स्फुरद्रत्नकेयूरहाराभिराम-श्चलत्कुण्डलश्रीलसद्गण्डभागः ।

कटौ पीतवासाः करे चारु शक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥१७॥

इहायाहि वत्सेति हस्तान्प्रसार्या-ह्वयत्यादराच्छंकरे मातुरङ्कात् ।

समुत्पत्य तातं श्रयन्तं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥१८॥

कुमारेशसूनो गुह स्कन्द सेना-पते शक्तिपाणे मयूराधिरूढ ।

पुलिन्दात्मजाकान्त भक्तार्तिहारिन् प्रभो तारकरे सदा रक्ष मां त्वम् ॥१९॥

प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे ।

प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुहं त्वम् ॥२०॥

कृतान्तस्य दूतेषु चण्डेषु कोपा-द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ।

मयूरं समारुह्य मा भैरिति त्वं पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥२१॥

प्रणम्यासकृतपादयोस्ते पतित्वा प्रसाद्य प्रभो पार्थयेऽनेकवारम् ।

न वक्तुं क्षमोहं तदानीं कृपाब्धे न कार्यान्तकाले मनागप्युपेक्षा ॥२२॥

सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः ।

ममान्तर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥२३॥

अहं सर्वदा दुःखभारावसन्नो भवान् दीनबन्धुस्त्वदन्यं न याचे ।

भवद्भक्तिरोधं सदा क्लृप्तबाधं ममाधिं दुतं नाशयोमासुत त्वम् ॥२४॥

अपस्मारकुष्टक्षयार्शःप्रमेह-ज्वरन्मादिगुल्मादिरोगा महान्तः ।

पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्यक्षणात्तरकारे द्रवन्ते ॥२५॥

दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-र्मुखे मे पवित्रं सदा तच्चरित्रम् ।

करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाशेषभावाः ॥२६॥

मुनीनामुतहो नृणां भक्तिभाजा-मभीष्टप्रदाः सन्ति सर्वत्र देवाः ।

नृणामन्त्यजानामपि स्वार्थदाने गुहाद्देवमन्यं न जाने न जाने ॥२७॥

कलत्रं सुता बन्धुवर्गः पशुर्वा नरो वाथ नारी गृहे ये मदीयाः ।

यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८॥

मृगाः पक्षिणो दंशका ये च दुष्टा – स्तथा व्याधयो बाधका ये मदङ्गे ।

भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैले ॥२९॥

जनित्री पिता च स्वपुत्रापराधं सहेते च किं देवसेनाधिनाथ ।

अहं चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥३०॥

नमः केकिने शक्तये चापि तुभ्यं नमश्चाग तुभ्यं नमः कुक्कुटाय ।

नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥३१॥

जयानन्दभूमञ्जयापारधाम-ञ्जयामोघकीर्ते जयानन्दमूर्ते ।

जयानन्द सिन्धो जयाशेषबन्धो जय त्वं पिता मुक्तिदानेशसूनो ॥३२॥

भुजङ्गाख्यवृत्तेन क्लृप्तं स्तवं यः पठेत्भक्तियुक्तो गुहं संप्रणम्य ।

स पुत्रान्कलत्रं धनं दीर्घमायु-र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥३३॥

॥ श्रीसुब्रह्मण्यभुजङ्गं सम्पूर्णम् ॥

Stotram Jankari at Koti Devi Devta 072
इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466