दक्षिणकालिका कवचम्

इसे अपने दोस्तों के साथ साझा करें

Dakshina Kalika Kavacham – Dakshina Kali Kavach

कैलास शिखरारूढं भैरवं चन्द्रशेखरम् ।

वक्षःस्थले समासीना भैरवी परिपृच्छति ॥

भैरव्युवाच

देवेश परमेशान लोकानुग्रहकारकः ।

कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥

यदि मे महती प्रीतिस्तवास्ति कुल भैरव ।

कवचं कालिका देव्याः कथयस्वानुकम्पया ॥

भैरवोवाच

अप्रकाश्य मिदं देवि नर लोके विशेषतः ।

लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥

भैरव्युवाच

सेवका वहवो नाथ कुलधर्म परायणाः ।

यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥

तेषां प्रयोग सिद्धयर्थ स्वरक्षार्थ विशेषतः ।

पृच्छामि बहुशो देव कथयस्व दयानिधे ॥

भैरवोवाच

कथयामि श्रृणु प्राज्ञे कालिका कवचं परम् ।

गोपनीयं पशोरग्रे स्वयोनिम परे यथा ॥

विनियोग

अस्य श्री दक्षिणकालिका कवचस्य भैरव ऋषिः, उष्णिक् छन्द:, अद्वैतरूपिणी श्री दक्षिणकालिका देवता, ह्नीं बीजं, हूं शाक्तिः. क्रीं कीलकं सर्वार्थ साधन पुरःसर मंत्र सिद्धौ विनियोगः ।

अथ कवचम्

सहस्त्रारे महापद्मे कर्पूरधवलो गुरुः ।

वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥

परमेश: पुरः पातु परापर गुरुस्तथा ।

परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥

महादेवी सदा पातु महादेव: सदावतु ।

त्रिपुरो भैरवः दिव्यरूपधरः सदा ॥

ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु ।

चलश्चित्तः सदा पातु पातु चेलाञ्चलश्च पातु माम् ॥

कुमारः क्रोधनश्चैव वरदः स्मरदीपन: ।

मायामायावती चैव सिद्धौघा: पातु सर्वदा ॥

विमलो कुशलश्चैव भीजदेवः सुधारकः ।

मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥

मूलदेवो रतिदेवो विघ्नेश्वर हुताशान: ।

सन्तोषः समयानन्दः पातु माम मनवा सदा ॥

सर्वेऽप्यानन्दनाथान्तः अम्बान्तां मातरः क्रमात् ।

गणनाथः सदा पातु भैरवः पातु मां सदा ॥

बटुको नः सदा पातु दुर्गा मां परिरक्षतु ।

शिरसः पाद पर्यन्तं पातु मां घोरदक्षिणा ॥

तथा शिरसि माम काली ह्यदि मूले च रक्षतु ।

सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥

क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदावतु ।

ह्नीं ह्नीं पातु सदाधोर दक्षिणेकालिके हृदि ॥

क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदावतु ।

ह्नीं ह्नीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥

पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु ।

षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥

मंत्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः ।

चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥

उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके ।

नीला घना वलाका च तथा परत्रिकोणके ॥

मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके ।

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥

बहिः षट्‌कोणके पान्तु विप्रचित्ता तथा प्रिये ।

सर्वाः श्यामाः खड्‌गधरा वामहस्तेन तर्जनीः ॥

ब्राह्मी पूर्वदले पातु नारायणि तथाग्निके ।

माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥

कौमारी पश्चिचे पातु वायव्ये चापराजिता ।

वाराही चोत्तरे पातु नारासिंही शिवेऽवतु ॥

ऐं ह्नीं असिताङ्ग पूर्व भैरवः परिरक्षतु ।

ऐं ह्णीं रुरुश्चाजिनकोणे ऐं ह्नीं चण्डस्तु दक्षिणे ॥

ऐं ह्नीं क्रोधो नैऋतेऽव्यात् ऐं ह्नीं उन्मत्तकस्तथा ।

पश्चिमे पातु ऐं ह्नीं मां कपाली वायु कोणके ॥

ऐं ह्नीं भीषणाख्यश्च उत्तरे ऽवतु भैरवः ।

ऐं ह्नीं संहार ऐशान्यां मातृणामङ्कया शिवः ॥

ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् ।

ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदावतु ॥

ऐं वह्नि वेतालो वटुको दक्षिणे मामा सदाऽवतु ।

ऐं अग्निजिह्व वटुको ऽव्यात् नैऋत्यां पश्चिमे तथा ॥

ऐं कालवटुक: पातु ऐं करालवटुकस्तथा ।

वायव्यां ऐं एकः पातु उत्तरे वटुको ऽवतु ॥

ऐं भीम वटुकः पातु ऐशान्यां दिशि माम सदा ।

ऐं ह्णीं ह्नीं हूं फट् स्वाहान्ताश्चतुः षष्टि च मातरः ॥

ऊर्ध्वाधो दक्षवामागें पृष्ठदेशे तु पातु माम् ।

ऐं हूं सिंह व्याघ्रमुखी पूर्वे मां परिरक्षतु ॥

ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु ।

ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥

ऐं चौं चौं गजराजमुखी नैऋत्यां मां सदाऽवतु ।

ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥

ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु ।

ऐं हां हां ह्नस्वदीर्घमुखी लम्बोदर महोदरी ॥

पातुमामुत्तरे कोणे ऐं ह्नीं ह्नीं शिवकोणके ।

ह्नस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥

एताः श्मशानवासिन्यो भीषणा विकृताननाः ।

पांतु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥

इन्द्रो मां पूर्वतो रक्षेदाग्नेय्या मग्निदेवता ।

दक्षे यमः सदा पातु नैऋत्यां नैऋतिश्च माम् ॥

वरुणोऽवतु मां पश्चात वायुर्मां वायवेऽवतु ।

कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥

ऊर्ध्व ब्रह्मा सदा पातु अधश्चानन्तदेवता ।

पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्चमाम् ॥

कालिका पातु शिरसि ह्र्दये कालिकाऽवतु ।

आधारे कालिका पातु पादयोः कालिकाऽवतु ॥

दिक्षु मा कालिका पातु विदिक्षु कालिकाऽवतु ।

ऊर्ध्व मे कालिका पातु अधश्च कालिकाऽवतु ॥

चर्मासूङ मांस मेदा‍ऽस्थि मज्जा शुक्राणि मेऽवतु ।

इन्द्रयाणि मनश्चैव देहं सिद्धिं च मेऽवतु ॥

आकेशात् पादपर्यन्तं कालिका मे सदाऽवतु ।

वियति कालिका पातु पथि नाकालिकाऽवतु ॥

शयने कालिका पातु सर्वकार्येषु कालिका ।

पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥

यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया ।

इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥

तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् ।

तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥

सर्व पापः क्षयं यान्ति वाञ्छा सर्वत्र सिद्धयति ।

नाम्नाः शतगुणं स्तोत्रं ध्यानं तस्मात् शताधिकम् ॥

तस्मात् शताधिको मंत्रः कवचं तच्छताधिकम् ।

शुचिः समाहितों भूत्वा भक्तिं श्रद्धा समन्वितः ॥

संस्थाप्य वामभागेतु शक्तितं स्वामि परायणाम् ।

रक्तवस्त्र परिघानां शिवमंत्रधरां शुभाम् ॥

या शक्तिः सा महादेवी हररूपश्च साधकः ।

अन्योऽन्य चिन्तयेद्देवि देवत्वमुपुजायते ॥

शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा ।

भोगैश्च मधुपर्काद्यै स्ताम्बूलैश्च सुवासितैः ॥

ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये ।

तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥

इदं रहस्यं परमं परं स्वस्त्ययनं महत् ।

या सकृत्तुपठद्देवि कवचं देवदुर्लभम् ॥

सर्वयज्ञ फलं तस्य भवेदेव न संशयः ।

संग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥

नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ।

तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥

गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् ।

दीर्घायुः कामभोगीशो गुरुभक्ताः सदा भवेत् ॥

अहो कवच माहात्म्यं पठमानस्य नित्यशः ।

विनापि नयोगेन योगीश समतां व्रजेत् ॥

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।

न शक्नोमि प्रभावं तु कवचस्यास्य वर्णिताम् ॥

इसे अपने दोस्तों के साथ साझा करें
Gyanchand Bundiwal
Gyanchand Bundiwal

Gemologist, Astrologer. Owner at Gems For Everyone and Koti Devi Devta.

Articles: 466