Kartviryarjun Dwadash Naam Stotram || Karthaveeryarjuna Dwadasa Stotram
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३॥
सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः ।
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४॥
सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् ।
चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृम्भित-कार्तवीर्यम् ॥ ५॥
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान्᳚ ॥ ६॥
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ७॥
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः ।
यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥
पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः ।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥
कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली ।
सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥
रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥
अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।
सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् सम्पूर्णम् ॥
